Suryadi Grahanam Karak Vimarsha

Main Article Content

Vishnu Prasad Sharma

Abstract

ज्योतिषशास्त्रे कारकविषये गर्ग-पराशर-जैमिनि-वराहमिहिर-कल्याणवर्म- गणेशदैवज्ञ ज्योर्तिविद्भिः प्रतिपादिताः भावानां विचाराः प्रस्तूयन्ते। कारकं द्विविधम् नियमितानियमितभेदात् तथा भावग्रहकारकौ इति। कारकं ज्यौतिषफलादेशस्य मूलाधारः वर्तते। प्रत्येकभावेषु दर्शनाय विभिन्नग्रहाणां विभिन्नविषयेषु कारकत्वं दत्तमस्ति। एतेषां कारकग्रहाणं प्रकृतेः अनुसारं च फलप्रदानरीतेः अनुसारेण ऋषयः फलितज्यौतिषे वैशिष्ट्यं प्रतिपादितवन्तः।
विभिन्नग्रन्थानुसारं कारकविचारः यथा -
मूलत्रिकोण स्वगृहोच्चसंस्था नभस्वराः केन्द्रगतामिथः स्युः। ते कारकाख्या मुनिभिः प्रणीता विज्ञेय आज्ञाभवने विशेषः।। (जातकाभरणम्-कारकयोग-१) यद्यपि ग्रहाः स्वकीयमूलत्रिकोणराशीनां अथवा स्वउच्च राश्यां केन्द्रस्थाने (१-४-७-१॰) तिष्ठन्ति तदा ते ग्रहाः परस्परं कारकाः भवन्ति, अर्थात् शुभकारक योगो भवति तथा जन्मकुण्डल्यां मध्ये दशमस्थाने कारकग्रहाः तिष्ठन्ति तदा ते ग्रहाः परस्परं कारकाः भवन्ति अर्थात् शुभकारक योगो भवति, तथा जन्मकुण्डल्यां मध्ये दशम-स्थाने कारकग्रहाः तिष्ठन्ति तदा विशिष्ट कारकाः मन्यन्ते इति जातकाभरणमतेन।
रवितनयो जूकस्थः कुलीरलग्ने बृहस्पति हिमांशू। मेषे कुजो रक्यिुतः परस्परं कारका एते।। सारावली - ६/१ कर्कलग्ने शनितुलायां गुरूचन्द्रौ कर्के राश्यां-मेषराश्यां भौमः - सूर्यः च तिष्ठति तदा ते ग्रहाः परस्परग्रहकारकाः भवन्ति अर्थात् राज्यप्रदः भवति। जातकस्य कुण्डलीमध्ये केन्द्रस्थाने स्वराश्यां स्थितेषु ग्रहाः कारकाः भवन्ति।
नीचकुले संभूतः कारकविहगैः प्रधानतां याति। क्षितिपतिवंश् समुत्थो भवति नरेन्द्रो न सन्देहः।। जन्मकाले पूर्वकथितग्रहानुसारं कारकयोगः विधते। नीचवंशे समुत्पन्नस्यापि तदा सः जातकः प्रधानः राजा वा भवति।
कारकयोगाय अधोनिर्दिष्टा नियमाः भवन्तिः।
ग्रहाः यदि उच्चस्था मूलत्रिकोणस्थाः स्वराशिस्थाः च परस्परं केन्द्रेषु भवन्ति तदा कारकयोगः भवति। एवं कारकयोगे ग्रहाः परस्परं राशिपरिवर्तनं कुर्वन्ति तेन च कुत्रवित् उत्तमफलप्रदाने असमर्था भवन्ति। केषा´्चन महापुरूषाणां लब्धप्रतिष्ठितानां कुण्डल्यां कारकयोगत्वात् कीर्तिभाजोऽपि ते दुःखभाज भवन्ति। इदं तथ्यं भगवतः रामचन्द्रस्यं कुण्डलीदर्शनेन स्वयमेव जायते। अति च द्वयोः उच्चग्रहयोः मूलत्रिकोणयोः स्वगृहस्थयोः एकः ग्रहः अन्यग्रहात् दशमे भवति। विशिष्टकारकयोगः भवति।

Downloads

Download data is not yet available.

Article Details

Section

Articles

How to Cite

References

(1) जातका भरणम् - पं. दुष्ठीराज , प्रकाशन - 1992 संवत, किशनलाल द्वारकाप्रसाद मथुरा (उ.प्र.) पेज नं. 281 - कारक योगो

(2) सारावली - श्रीमल्कल्याणवर्यः , प्रकाशन - 1977, मोतीलाल बनारसीदास, वाराणसी 6, श्लोक अध्याय - 1

(3) जैमिनी सूत्रम, - डॉ. सुरेशचन्द्र मिश्रः , प्रकाशन - 1996, रंजन पब्लिकेशन्स - नई दिल्ली

Similar Articles

You may also start an advanced similarity search for this article.